विद्या पर निबंध संस्कृत में || Vidya per Nibandh Sanskrit Mein long & Short Essay
विद्या
सद्गुणानां प्रकाशिका दुर्गुणानां व विनाशिका विद्या कं न अलंकरोति ? नूतनानां विचाराणां जनयित्री, परितापानां हर्त्री विद्या सर्वेषां कल्याणं करोति । सर्वविधस्य ज्ञानस्य आधारः विद्या एव अस्ति । विद्यालयेषु यावन्तः विषयाः पाठ्यन्ते जीवने वा यद् ज्ञानं लभ्यते तत् सर्वं विद्या एव । विद्या अस्ति शाश्वतिकं धनं यत् त्रिकालेऽपि विनाशं न गच्छति । नेदं बन्धुभिः विभाज्यते, न चौरैः चोर्यते, न केनापि अन्येन अपहर्तुं शक्यते ।
विद्या: बहुविधा: भवन्ति, यथा साहित्यं, संगीत, कला, विज्ञानम् इति । विद्यातुनिरन्तरम् अभ्यासेन परिश्रमेण वा प्राप्तुं शक्यते । यया विद्यया सर्वेषां कलयाणं भवति सा एव विद्या किन्तु यया अन्येषाम् अतिं भवेत् सा न विद्या, अपितु अविद्या एव ।
साम्प्रतं सर्वत्र शस्त्राणां स्पर्धा वर्द्धते यया मानवजीवनं संकटापन्नं विनाशोन्मुखं च भवति । अतः ज्ञानस्य उपयोगः मानवकल्याणाय एव भवेत् एतदर्थ गंभीरतया विवेचनीयम् ।
विद्या पर निबंध संस्कृत में 10 लाइन -
1. विद्या भोगकरी अस्ति यशः सुखकारी भवति।
2. विद्या विहीन: धनवानपि निर्धन: मन्यते।
3. विद्या मनुष्य: धनं आप्रोति।
4. धनात् सर्वाणि सुखानि लभते। विद्या विनयं ददाति।
5. विद्या अधुना युगे अत्यावश्यकं अस्ति।
6. विद्या मनुष्या: सर्वश्रेष्ठा: भवन्ति।
7. विद्या अज्ञानान्धकारं दूरी करोति।
8. मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति।
9. विद्या विहीन: नर: पशुभि: समान: ।
10. सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।
इन्हें भी पढ़ें -
विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में
गाय (धेनू) पर निबंध संस्कृत में
संस्कृत भाषा का महत्व पर निबंध संस्कृत में
महात्मा गांधी पर निबंध संस्कृत में
Post a Comment