संस्कृत भाषा के महत्व पर निबंध संस्कृत में | Essay on important of Sanskrit language
संस्कृत भाषाया: महत्त्वम्
संस्कृतं विश्वस्य प्राचीनतमा भाषा अस्ति । अस्य व्याकरणं सुनिश्चितं साहित्यं च समृद्धम् अस्ति । चत्वारः वेदाः भारतीय संस्कृतेः प्राणाः सन्ति, ते संस्कृते एव निबद्धाः । अष्टादशपुराणनि षट् दर्शनानि वेदांगानि च संस्कृतस्यैव निधयः सन्ति ।
कालिदासः भवभूतिः अश्वघोषदयश्च संस्कृतस्य श्रेष्ठाः कवयः येषां साहित्यम् अत्यन्तम् उत्कृष्टं प्रेरणाप्रदं च अस्ति । संस्कृत साहित्ये विपुलानां विषयाणां वर्णनम् अस्ति । यथा विदुरनीतौ नीतिशास्त्रस्य, मनुस्मृतौ आचारस्य, चाणक्यस्य अर्थशास्त्रे अर्थशास्त्रस्य, वात्स्यायनस्य कामसूत्रे कामशास्त्रस्य एवं धर्मस्य अर्थस्य कामस्य च विशदं सर्वजनोपयोगि च वर्णनम् अस्ति ।
संस्कृनां शब्दानां रचनायाः अपूर्वं सामर्थ्यम् अस्ति । धातुप्रत्ययसंयोगेन, उपसर्गसंयोगेहवः नवीनाः शब्दाः रचयितुं शक्यन्ते ।
संस्कृतभाषा सम्पूर्णभारते समानरूपेण अङ्गीकृता आदृता च अस्ति । अतः राष्ट्रियैयसंस्थापनाय अद्भुतं सामर्थ्यम् आवहति । एतादृश्या: समृद्धायाः मातृभूतायाः संस्कृतभाषायाः संवर्द्धनाय अस्माभिः सर्वविधः प्रयासः कर्तव्यः ।
संस्कृतभाषायाः महत्त्वम् -
संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषया एव व्यवहारं कुर्वन्ति स्म कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतभाषायाः यत्स्वरूपम् अद्य प्राप्यते, तदेव अद्यतः सहस्रवर्षपूर्वम् अपि आसीत् । संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति । अस्य व्याकरणं पूर्णतः तर्कसम्मतं सुनिश्चितं च अस्ति। आचार्य - दण्डिना सम्यगेवोक्तम्
"भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।"
अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति । राष्ट्रस्य ऐक्यं च साधयति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रसारः सर्वैरेव कर्त्तव्यः। अतएव उच्चते–'संस्कृतिः संस्कृताश्रिता । '
संस्कृत भाषा के महत्व पर निबंध-
1. संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति।
2. सर्वे प्राचीनग्रंथा: चत्वारो वेदाश्च संस्कृतभाषायामेव संति।
3. प्राचीनकाले सर्वे ऐव भारतीया: संस्कृतभाषाया एव व्यवहारं कुर्वत स्म।
4. कालांतरे विविधा: प्रान्तीयाः भाषा: प्रचलिता: अभवन किंतु संस्कृतस्य महत्वम् अधापि अक्षुण्णं वर्तते।
5. संस्कृत भाषाया: यत्स्वरूपम अध प्राप्यते तदेव अधतः सहस्त्रवर्ष पूर्वम यिपि आसीत्।
6. संस्कृतभाषा भारतराष्ट्रस्य एकताया: आधार: अस्ति।
7. अस्य व्याकरणमं पूर्णता: तर्कसम्मतं सुनिश्चितं च अस्ति।
8. संस्कृतभाषा: स्वरूपं पूर्णरूपेण वैज्ञानिक भाषा च अस्ति।
9. संस्कृतभाषैव भारतस्य प्राणभुताः भाषाः अस्ति।
10. आधुना सडणकस्य कृते संस्कृत भाषाः अति उपयुक्तः अस्ति।
इन्हें भी पढ़ें -
विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में
गाय (धेनू) पर निबंध संस्कृत में
Osm
ReplyDeletePost a Comment