महात्मा गांधी पर निबंध संस्कृत में || Mahatma Gandhi Per Nibandh Sanskrit Mein
महात्मा गांधी पर निबंध संस्कृत में
राष्ट्रपिता महात्मा गांधी -
अस्माकं देशः वैदेशिकानां शासकानाम् आधिपत्ये स्थितः चिरकालं परतन्त्रम् अतिष्ठत् । राष्ट्रभक्ताः नेतारः देशस्य स्वतंत्रतायै प्रयत्नम् अकुर्वन देशं च स्वतंत्रम् अकारयन् । तेषु महात्मा गान्धी मूर्धन्यः आसीत् ।
अस्य जन्म गुर्जर प्रदेशे पोरबन्दर नामके स्थाने अभवत् । अयं विदेशे विधि शिक्षां प्राप्य स्वदेशे प्राड्विवाक-कर्म कर्तुम् आरभत । अयं शीघ्रमेव अन्वभवत् यत् वैदेशिकानां शासने स्थिताः भारतीयाः निरन्तरम् अपमानिताः उपेक्षिताश्च भवन्ति । एतेन भृशं पीडितः अयं देशस्य स्वतंत्रतायै संकल्पम् अकरोत् । देशस्य जनान् संघटितान् कृत्वा अहिंसात्मकं स्वतंत्रतान्दोलनम् अचालयत् । एतदर्थम् अयं बहुभिः सहयोगिभिः सह बहुवारं कारागारं प्रेषित: बहुशः पीडितश्च परं सत्यसंकल्पोऽयं महात्मा अगस्त मासस्य पञ्चदशे दिनाङ्के 1947 वर्षे देशं स्वतंत्रम् अकारयत् । अतः एवं अयं राष्ट्रपिता इति उच्यते ।
अहिंसा सत्यापरिग्रहाः अस्य जीवन सिद्धान्ता आसन् येषां पालनम् अयं सदा अकरोत् । अद्य अयं महात्मा अस्माकं मध्ये नास्ति परं देशवासिभ्यः सदा प्रेरणां ददाति ।
महात्मा गांधी पर संस्कृत में निबंध 10 लाइन
1. महात्मा गांधी एक: महापुरुष: आसीत्।
2. स: अस्माकं राष्ट्रपिता अस्ति।
3. तस्य पूर्ण नाम मोहनदास करमचंद गांधी अस्ति।
4. तस्य जन्म गुजरातप्रवेशस्य पोरबंदरनामक नगरं १८६९(1869) तमे ख्रीस्ताब्दे अक्टूबर मासस्य द्वितीयायां तिथौ अभवत्।
5. तस्य पितुः नाम करमचंद गांधी मातुश्च पुतलीबाई आसीत्।
6. तस्य पत्नी कस्तूरबा एका धामिका पतिव्रतानारी आसीत्।
7. महात्मा गांधी महोदय: बाल्यकालादेव एकः सरलः बालक: आसीत्।
8. सः सदा सत्यम् वदति स्म।
9. उच्चशिक्षायै सः आंग्लदेशमगच्छत्।
10. स्वदेशमागत्य सः स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः।
Post a Comment